|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.51. अध्यायः 051
Mahabharata - Udyoga Parva - Chapter Topics
धृतराष्ट्रस्य सञ्जयाग्रे भीमसेनप्रतापानुस्मरणेन परिशोचनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-51-0(33783)
धृतराष्ट्र उवाच। 5-51-0x(3558)
सर्व एते महोत्साहा ये त्वया परिकीर्तिताः।
एकतस्त्वेव ते सर्वे समेता भीम एकतः ॥ 5-51-1(33784)
भीमसेनाद्धि मे भूयो भयं सञ्जायते महत्।
क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः ॥ 5-51-2(33785)
जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन्।
भीतो वृकोदरात्तात सिंहात्पशुरिवापरः ॥ 5-51-3(33786)
न हि तस्य महाबाहोः शक्रप्रतिमतेजसः।
सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि ॥ 5-51-4(33787)
अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः ।
अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः ॥ 5-51-5(33788)
महावेगो महोत्साहो महाबाहुर्महाबलः।
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ 5-51-6(33789)
उरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः।
कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः॥ 5-51-7(33790)
अष्टाश्रिमायसीं घोरां गदां काञ्चनभूषणाम् ।
मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् ॥ 5-51-8(33791)
यथा मृगाणां यूथेषु सिंहो जातबलश्चरेत्।
मामकेषु तथा भीमो बलेषु विचरिष्यति ॥ 5-51-9(33792)
सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः ।
बह्वाशी विप्रतीपश्च बाल्येपि रभसः सदा ॥ 5-51-10(33793)
उद्वेपते मे हृदयं ये मे दुर्योधनादयः।
बाल्येऽपि तेन युद्ध्यन्तो वारणेनेव मर्दिताः ॥ 5-51-11(33794)
तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम।
स एव हेतुर्भेदस्य भीमो भीमपराक्रमः ॥ 5-51-12(33795)
ग्रसमानमनीकानि नरवारणवाजिनाम्।
पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे ॥ 5-51-13(33796)
अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे।
महेश्वरसमं क्रोधे को हन्याद्भीममाहवे ॥ 5-51-14(33797)
सञ्जयाचक्ष्व मे शूरं भीमसेनममर्षणम् । 5-51-15b.......... येऽहं यत्तेन रिपुघातिना ।
..... सर्वे पुत्राः मम मनस्विना ॥ 5-51-15(33798)
येन भीमबला यक्षा राक्षसाश्च पुरा हताः।
कथं तस्य रणे वेगं मानुषः प्रसहिष्यति ॥ 5-51-16(33799)
न स जातु वशे तस्थौ मम बाल्येऽपि सञ्जय ।
किं पुनर्मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः ॥ 5-51-17(33800)
निष्ठुरो रोषणोऽत्यर्थं भज्येतापि न संनमेत्।
तिर्यक्प्रेक्षीं संहतभ्रूः कथं शाम्येद्वृकोदरः ॥ 5-51-18(33801)
शूरस्तथाऽप्रतिबलो गौरस्ताल इवोन्नतः।
प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् ॥ 5-51-19(33802)
जवेन वाजिनोऽत्येति बलेनान्त्येति कुञ्जरान् ।
अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली ॥ 5-51-20(33803)
इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा।
रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः ॥ 5-51-21(33804)
आयसेन स दण्डेन रथन्नागान्नरान्हयान्।
हनिष्यति रणे क्रुद्धो रौद्रः क्रूरपराक्रमः ॥ 5-51-22(33805)
अमर्षी नित्यसंरब्धो भीमः प्रहरतां वरः।
मया तात प्रतीपानि कुर्वन्पूर्वं विमानितः ॥ 5-51-23(33806)
निष्कर्णामायसीं स्थूलां सुपार्श्वां काञ्चनीं गदाम् ।
शतघ्नीं शतनिर्हादां कथं शक्ष्यन्ति मे सुताः ॥ 5-51-24(33807)
अपारमप्लवागाधं समुद्रं शरवेधनम् ।
भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः॥ 5-51-25(33808)
क्रोशतो मे न श्रृण्वन्ति बालाः पण्डितमानिनः ।
विषमं न हि मन्यन्ते प्रापतं मधुदर्शिनः ॥ 5-51-26(33809)
संयुगे ये गमिष्यन्ति नररूपेण मृत्युना।
नियतं चोदिता धात्रा सिंहेनेव महामृगाः ॥ 5-51-27(33810)
शैक्यां तात चतुष्किष्कुं षडश्रिममितौजसम्।
प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः ॥ 5-51-28(33811)
गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान्।
सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः ॥ 5-51-29(33812)
उद्दिश्य नागान्पततः कुर्वतो भैरवान्रवान्।
प्रतीपं पततो मत्तान्कुञ्जरान्प्रति गर्जतः ॥ 5-51-30(33813)
विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः ।
अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा ॥ 5-51-31(33814)
वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् ।
नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ॥ 5-51-32(33815)
प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान्।
प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः ॥ 5-51-33(33816)
कुर्वन्रथान्विपुरुषान्विसारथिहयध्वजान् ।
आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा ॥ 5-51-34(33817)
गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान्।
प्रभङ्क्ष्यति रणे सेनां पुत्राणां मम सञ्जय ॥ 5-51-35(33818)
वधं नूनं गमिष्यन्ति भीमसेनभयार्दिताः ।
मम पुत्राश्च भृत्याश्च राजानश्चैव सञ्जय ॥ 5-51-36(33819)
येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा।
वासुदेवसहायेन जरासन्धो निपातितः ॥ 5-51-37(33820)
कृत्स्नेयं पृथिवी देवी जरासन्धेन धीमता।
मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता ॥ 5-51-38(33821)
भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः ।
यन्न तस्य वशे जग्मुः केवलं दैवमेव तत् ॥ 5-51-39(33822)
स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना।
अनायुधेन वीरेण निहतः किं ततोऽधिकम् ॥ 5-51-40(33823)
दीर्घकालसमासक्तं विशमाशीविषो यथा।
स मोक्ष्यति रणे तेजः पुत्रेषु मम सञ्जय ॥ 5-51-41(33824)
महेन्द्र इव वज्रेण दानवान्देवसत्तमः ।
भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् ॥ 5-51-42(33825)
अविषह्यमनावार्यं तीव्रवेगपराक्रमम् ।
पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् ॥ 5-51-43(33826)
अगदस्याप्यधनुषो विरथस्य विवर्मणः ।
बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् ॥ 5-51-44(33827)
भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा।
जान्त्येते यथैवहं वीर्यज्ञस्तस्य धीमतः ॥ 5-51-45(33828)
आर्यव्रतं तु जानन्तः सङ्गरान्तं विधित्सवः ।
सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः ॥ 5-51-46(33829)
बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः।
पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् ॥ 5-51-47(33830)
ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः।
त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः ॥ 5-51-48(33831)
यथैषां मामकास्तात तथैषां पाण्डवा अपि।
पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च ॥ 5-51-49(33832)
ये त्वस्मदाश्रयं किञ्चिद्दत्तमिष्टं च सञ्जय।
तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः ॥ 5-51-50(33833)
आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः।
निधनं क्षत्रियस्याजौ वरमेवाद्दुरुत्तमम् ॥ 5-51-51(33834)
स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवैः ।
विक्रुष्टं विदुरोणादौ तदेतद्भयमागतम् ॥ 5-51-52(33835)
न तु मन्ये विघाताय ज्ञानं दुःखस्य सञ्जय ।
भवत्यतिबलं ह्येतज्ज्ञानस्याप्युपघातकम् ॥ 5-51-53(33836)
ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसङ्ग्रहान्।
सुखैर्भवन्ति सुखिनस्तथा दुःखेन दुःखिताः ॥ 5-51-54(33837)
किं पुनर्मोहमासक्तस्तत्र तत्र सहस्रधा।
पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु ॥ 5-51-55(33838)
संशये तु महत्यस्मिन्किं नु मे क्षममुत्तरम्।
विनाशं ह्येव पश्यामि कुरूणामनुचिन्ततयन् ॥ 5-51-56(33839)
द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत्।
मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् ॥ 5-51-57(33840)
मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः।
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ॥ 5-51-58(33841)
किं नु कुर्यां कथं कुर्यां क्व नु गच्छामि सञ्जय ।
एते नश्यन्ति कुरवो मन्दाः कालवशं गताः ॥ 5-51-59(33842)
अवशोऽहं तदा तात पुत्राणां निहते शते।
श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् ॥ 5-51-60(33843)
यथा निदाघे ज्वलनः समद्धो
दहेत्कक्षं वायुना चोद्यमानः ।
गदाहस्तः पाण्डवो वै तथैव
हन्ता मदीयान्सहितोऽर्जुनेन ॥ ॥ 5-51-61(33844)
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि एकपञ्चाशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-51-7 उरुग्राहः महानिर्बन्धस्तेन गृहीतानां वशीकृतानाम् ॥ 5-51-10 रभसः वेगवान् ॥ 5-51-21 पुरा पुराणम् ॥ 5-51-24 निष्कर्णां अवक्राम्। शतनिर्ह्रादां महाशब्दवतीम् ॥ 5-51-28 शैक्यां शिक्यस्थाम् ॥ 5-51-35 अनूपान् सजलदेशे स्थितान् ॥ 5-51-44 अगदस्य गदाहीनस्य ॥ 5-51-58 पर्यायधर्मः विपरीतधर्मः। प्रधिर्नेमिः। अस्य कालवशस्य । तृतीयार्थे षष्ठी ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|